आद्यशंकराचार्य कृत सौंदर्य लहरी

By: Jan 21st, 2017 12:07 am

Aasthaभगवती की उपासना के लिए ‘सौंदर्य लहरी’ आद्यशंकराचार्य का साधकों को दिया गया अप्रतिम उपहार है। वाह्य रूप से देखें तो यह एक निष्पाप हृदय द्वारा भगवती की उपासना प्रतीत होती है। गहराई में विचार करने पर साधकों को यह तंत्र के गुह्य रहस्यों का संचय प्रतीत होती है। अपनी काव्यात्मकता के लिए सौंदर्य लहरी भक्तों को आकर्षित करती है…

 किरिटं वैरिञ्चं परिहर पुरः कैटभ भिदः ।

कठोरे कोटीरे स्खलसि जहि जंभारि मुकुटम् ॥

प्रणम्रे श्वेतेषु प्रसभमुपयातस्य भवनम् ।

भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥29॥

स्वदेहोद्भूताभिर्घृणिभिरणिमाऽद्याभिरभितो ।

निषेव्ये नित्ये त्वामहमिति सदा भावतियः ॥

किमाश्चर्यं तस्य त्रिनयन समृद्धिं तृणयतो ।

महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥30॥

चतुःषष्ट्या तंत्रैः सकलमतिसन्धाय भुवनं

स्थितः तत्तत्सिद्धि प्रसव परतंत्रैः पशुपतिः ।

पुनस्त्वन्निर्बन्धादखिल पुरुषार्थैक घटना-

स्वतन्त्रंते तंत्रं क्षितितल मवातीतरदिदम् ॥31॥

शिवः शक्तिः कामः क्षिति रथ रविः शीतकिरण

स्मरो हंसः शक्र स्तदनु च परा मार हरयः ॥

अमी हृल्लेखा भिस्तिसृभिरवसानेषु घटिता ।

भजंते वर्णास्ते तव जननि नामावयवताम् ॥32॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-

र्निधायैके नित्ये निरवधि महा भोग रसिकाः॥

भजन्ति त्वां चिन्तामणि गुण निबद्धा क्षवलयाः ।

शिवाऽग्नौ जुह्वन्तः सुरभिघृतधाराऽऽहुतिशतैः॥33॥

शरीरं त्वं शंभोः शशिमिहिरवक्षोरुह युगम् ।

तवात्मानं मन्ये भगवतिनवात्मान मनघं ॥

अतः शेषः शेषीत्ययमुभय साधारणतया ।

स्थितः संबंधोवां समरस परानन्दपरयोः ॥34॥

मनस्त्वं व्योमत्वं मरुदसि मरुत्सारथिरसि ।

त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ॥

त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा ।

चिदानंदाकारं शिवयुवति भावेन बिभृषे ॥ 35॥

तवाज्ञा चक्रस्थं तपनशशि कोटि द्युतिधरं ।

परं शंभुं वंदे परिमिलित पार्श्वं परचिता ॥

यमाराध्यन् भक्त्या रविशशिशुचीनामविषये ।

निरातंके लोको निवसतिहि भालोकभवने ॥36॥

विशुद्धौ ते शुद्ध स्फटिक विशदं व्योमजनकम् ।

शिवं सेवेदेवीमपि शिव समान व्यवसिताम् ॥

ययोः कान्त्या यान्त्या शशिकिरण सारूप्य सरणिं ।

विधुतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥37॥

समुन्मीलत्संवित् कमलमकरन्दैकरसिकं ।

भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ॥

यदालापादष्टादशगुणितविद्यापरिणति-

र्यदादत्ते दोषाद्गुणमखियमद्भयः पय इव ॥38॥

तव स्वाधिष्टाने हुतवहमधिष्ठाय निरतम् ।

तमीडे संवर्तं जननि महतीं तांचसमयाम् ॥

यदालोके लोकान्दहति महति क्रोध कलिते ।

दयार्द्रा यदृष्टिः शिशिरमुपचारं रचयति ॥39॥

तडित्वन्तं शक्त्या तिमिर परिपंथिस्फुरणया ।

स्फुरन्नानारत्नाभरण परिणद्धेन्द्रधनुषम् ॥

तव श्यामंमेघं कमपि मणिपूरैक शरणम् ।

निषेवे वर्षन्तं हरमिहिर तप्तम् त्रिभुवनम् ॥40॥

तवाधारे मूले सह समयया लास्यपरया ।

नवात्मानं मन्ये नवरस महाताण्डव नटम् ॥

उभाभ्यामेताभ्यामुदय विधिमुद्दिश्य दयया ।

सनाथाभ्यां जज्ञेजनक जननीमज्जगदिदम् ॥41॥

गतैर्माणिक्यत्वं गगन मणिभिः सान्द्र घटितं ।

किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ॥

सनीडेयच्छायाच्छरणशबलं चंद्र शकलम् ।

धनुः शौनासीरं किमिति न निबध्नातिधिषणाम् ॥42॥

धुनोतु ध्वान्तंनस्तुलित दलितेन्दीवर वनं ।

घन स्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ॥

यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो ।

वसन्त्यस्मिन्मन्ये वलमथनवाटी वितपिनाम् ॥43॥

वहंती सिन्दुरं प्रबल कबरी भारतिमिर-

द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्क किरणम् ।

तनोतु क्षेमं नस्तव वदन सौन्दर्यलहरी-

परीवाहस्त्रोतःसरणिरिव सीमन्त सरणिः॥ 44॥

अरालैः स्वाभाव्यादलि कलभस श्रीभिरलकैः ।

परीतं ते वक्त्रं परिहसति पंकेरुहरुचिम् ॥

दरस्मेरे यस्मिन् दशन रुचि किञ्जल्करुचिरे ।

सुगंधौ माद्यन्ति स्मरदहन चक्षुर्मधुलिहः॥45॥


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App