श्री विष्णु सहस्रनाम

By: Dec 9th, 2017 12:05 am

-गतांक से आगे…

स्वक्षः स्वङ्गः शतानंदो नंदिर्ज्योतिर्गणेश्वरः।

विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः। 79।

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः।

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः। 80।

अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः।

अनिरुद्धोऽप्रतिरथः प्रद्युनोऽमितविक्रमः। 81।

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।

त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः। 82।

कामदेवः कामपालः कामी कांतः कृतागमः।

अनिर्देश्यवपुर्विष्णुर्वीरोऽनंतो धनंजयः। 83।

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।

ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः। 84।

महाक्रमो महाकर्मा महातेजा महोरगः।

महाक्रतुर्महायज्वा महायज्ञो महाहविः। 85।

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः। 86।

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।

वसुप्रदो वासुदेवो वसुर्वसुमना हविः। 87।

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः।

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः। 88।

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः।

दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः। 89।

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान।

अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः। 90।

एको नैकः सवः कः किं यत्पदमनुत्तम।

लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः। 91।

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चंदनाङ्गदी।

वीरहा विषमः शून्यो घृताशीरचलश्चलः। 92।

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक।

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः। 93।

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।

प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः। 94।


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App