इंद्रकृत श्रीकृष्ण स्तोत्रं

By: Oct 24th, 2020 12:27 am

अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम्।

गुणातीतं निराकारं स्वेच्छामयमनन्तकम्॥ 1 ॥

भक्तध्यानाय सेवायै नानारूपधरं वरम्।

शुक्लरक्तपीतश्यामं युगानुक्रमणेन च॥ 2 ॥

शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम्।

त्रेतायां कुंकमाकारं ज्वलन्तं ब्रह्मतेजसा॥ 3 ॥

द्वापारे पीतवर्णं च शोभितं पीतवाससा।

कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभूम्॥ 4 ॥

नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम्।

नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम्॥ 5 ॥


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App