इंद्रकृत श्रीकृष्ण स्तोत्रं

By: Indrakrit, Shri Krishna Stotram Nov 21st, 2020 12:28 am

-गतांक से आगे…

गायन्तं रम्यसंगीतं कुत्रचिद् बालकैः सह।

स्तुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरिं भिया॥ 16 ॥

पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च।

कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते॥ 17 ॥

एकादशाक्षरो मन्त्रः कवचं सर्वलक्षणम्।

दत्तमेतत् कुमाराय पुष्करे ब्रह्मणा पुरा॥ 18 ॥

कुमारोऽङगिरसे दत्तो गुरवेऽङगिरसा मुने।

इदमिन्द्रकृतं स्तोत्रं नित्यं भक्तया च यः पठेत्॥ 19 ॥

इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेद् ध्रुवम्।

जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः॥ 20 ॥

न हि पश्यति स्वप्नेऽपि यमदूतं यमालयम्॥ 21 ॥

॥ इति श्रीब्रह्मवैर्तपुराणे श्रीकृष्णजन्मखण्डे इंद्रकृत श्रीकृष्ण स्तोत्रं संपूर्णं॥


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App