श्रीगोपाल सहस्रनाम स्तोत्र

-गतांक से आगे…

न दातव्यं न दातव्यं न दात्व्यं कदाचन।

देयं शिष्याय शांताय विष्णुभक्तिरताय च।। 161।।

गोदानब्रह्मयज्ञादेर्वाजपेयशस्य च।

अश्वमेधसहस्त्रस्य फलं पाठे भवेदध्रुवम्।। 162।।

मोहनं स्त भनं चैव मारणोच्चाटनादिकम।

यद्यद्वांछति चित्तेन तत्तत्प्राप्नोति वैष्णवः।। 163।।

एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः।

आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम्।। 164।।

तत आर भकर्ताह्यसौ सर्व प्राप्नोति मानवः।

शतावृत्तं सहस्त्रं च यः पठेद्वैष्णवो जनः।। 165।।

श्रीवृंदावनचन्द्रस्य प्रासादात्सर्वमाप्नुयात।

यदगृहे पुस्तकं देवि पूजितं चैव तिष्ठति।। 166।।

न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित।

सर्पादि भूतयक्षाद्या नश्यंति नात्र संशयः।। 167।।

श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा।

गृहे यत्र सहस्त्रं च ना नां तिष्ठति पूजितम्।। 168।।

-समाप्त