आद्यशंकराचार्य कृत सौंदर्य लहरी

By: Jan 7th, 2017 12:15 am

भगवती की उपासना के लिए ‘सौंदर्य लहरी’ आद्यशंकराचार्य का साधकों को दिया गया अप्रतिम उपहार है। वाह्य रूप से देखें तो यह एक निष्पाप हृदय द्वारा भगवती की उपासना प्रतीत होती है। गहराई में विचार करने पर साधकों को यह तंत्र के गुह्य रहस्यों का संचय प्रतीत होती है। अपनी काव्यात्मकता के लिए सौंदर्य लहरी भक्तों को आकर्षित करती है…

चतुर्भिःश्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि

प्रभिन्नाभिः शंभोर्नवभिरपि मूल प्रकृतिभिः

त्रयश्चत्वारिंशद् वसुदल कलाश्रत्रिवलय-

त्रिरेखाभिः सार्द्धतवशरणकोणाः परिणताः॥11॥

त्वदीयं सौंदर्यं तुहिनगिरिकन्ये तुलयितुं।

कवींद्राः कल्पन्ते कथमपि विरिञ्चिप्रभ्रृतयः॥

यदालोकौत्सुक्यादमरललना यान्ति मनसा।

तपोभिर्दुष्प्रापामपिगिरिश सायुज्यपदवीम् ॥12॥

नरं वर्षीयासं नयनविरसं नर्मसु जडं।

तवापाङ्गालोके पतितमनुधावन्ति शतशः।।

गलद्वेणीबन्धाःकुचकलशविस्रस्तसिचया ।

हटात त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः॥13॥

क्षितौ षट्पञ्चाशद्द ्विसमधिकपञ्चाशदुदके ।

ताशेद्वाषष्टीश्चतुरधिकपञ्चाशदनिले ॥

दिविद्विःषट् त्रिंशन्मनसि च चतुःषष्टिरितिये ।

मयुखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥14॥

शरज्ज्योत्स्नां शुभ्रां शशियुत जटाजूट मकुटां।

वर त्रासत्राण स्फटिक घुटिका पुस्तक कराम् ॥

सकृन्न त्वां नत्वा कथमिव सतां संनिदधते।

मधु क्षीर द्राक्षा मधुरिमधुरिणा भणितयः ॥15॥

कविन्द्राणां चेतः कमल वनबाला तपरुचिं ।

भजन्ते ये सन्तः कतिचिदरुणा मेव भवतीम् ।।

विरिञ्चि प्रेयस्या स्तरुणतर श्रृङ्गार लहरी ।

गभीराभिर्वाग्भिर्बिदधति सतां रन्जन्ममी ।।16।।

सवित्रीभिर्वाचां शशिमणि शिला भङ्गरुचिभि-

र्वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयतियः॥

सकर्ता काव्यानां भवति महतां भङ्गिसुभगै-

र्वचोभि र्वाग्देवी वदन कमला मोद मधुरैः॥17॥

तनुच्छाया भिस्ते तरुणतरणि श्रीधरणिभि-

र्दिवं सर्वामुर्वी मरुणि मनिमग्न्नां स्मरति यः॥

भवन्त्यस्य त्रस्य द्वनहरिणशालीन नयनाः।

सहोर्वश्यावश्याःकतिकतिनगीर्वाणगणिकाः ॥18॥

मुखं बिंदुं कृत्वा कुचयुगमधस्तस्य तदधो ।

हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथ कलाम् ॥

स सद्यः संक्षोभं नयति बनिता इत्यतिलघु ।

त्रिलोकी मप्याशु भ्रमयति रवीन्दु स्तनयुगाम् ॥19॥

किरन्तीमङ्गेभ्यःकिरण निकुरुम्बामृतरसं ।

हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिवयः॥

स सर्पाणां दर्पं शमयति शकुंन्ताधिप इव ।

ज्वरप्लुष्टांदृष्ट्या सुखयतिसुधाऽऽसारसिरया ॥20॥

तडिल्लेखातन्वीं तपनशशि वैश्वानरमयीं ।

निषण्णांषण्णामप्युपरि कमलानां तव कलाम् ॥

महापद्माटव्यां मृदितमलमायेन मनसा ।

महान्तःपश्यन्तो दधति परमाह्लादलहरीम्॥21॥

भवानित्वं दासे मयि वितरदृष्टिं स करुणा-

मितिस्तोतुंवाञ्छन्कथयति भवानित्वमिति यः ।

तदैवत्वं तस्मै दिशसि निजसायुज्य पदवीं

मुकुंद ब्रह्मेंद्र स्फुटमकुट नीराजितपदाम् ॥22॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा।

शरीरार्द्ध शंभो रपर मपि शङ्के हृतमभूत् ॥

यदेतत्त्वद्रूपं सकलमरुणाभंत्रिनयनम् ।

कुचाभ्या मानम्रं कुटिल शशि चूडाल मुकुटम्॥23॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते ।

तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति॥

सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-

स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥24॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे ।

भवेत्पूजा पूजा तव चरणयोर्या विरचिता ॥

तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे ।

स्थिताह्येते शश्वन् मुकुलालितकरोत्तंस मकुटाः ॥25॥

विरिञ्चिः पञ्चत्वं ब्रजति हरिराप्नोति विरतिं ।

विनाशं कीनाशो भजति धनदो याति निधनम् ॥

वितंद्री माहेंद्री विततिरपि संमीलति दृशां।

महा संहारेऽस्मिन् विहरति सतित्वत्पतिरसौ ॥26॥

                                           – क्रमशः


Keep watching our YouTube Channel ‘Divya Himachal TV’. Also,  Download our Android App